गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निम्नलिखितं गद्यांशं पठित्वा अष्टप्रश्नानां यथोचितं विकल्पानुसारं उत्तराणि देयानि –
कस्मिंश्चित् जलाशये अनागतविधाता प्रत्युत्पन्नमतिः यद्भविष्यश्चेति त्रयो मत्स्याः सन्ति। अथ कदाचित् तं जलाशयं दृष्ट्वा गच्छद्भिर्मत्स्यजीविभिरुक्तं “यदहो! बहुमत्स्योऽयं हृदः कदाचिदपि नास्माभिरन्वेषितः। तदद्य तावदाहारवृत्तिः सञ्जाताः, सन्ध्यासमयश्च संवृत्तः ततः प्रभातेऽत्र आगन्तव्यमिति निश्चयः”। अतस्तेषां तत्कुलिशपातोपमं वचः समाकर्ण्य अनागतविधाता सर्वान्मत्स्यान् आहूय इदमूचे, – “अहो! श्रुतं भवद्भिः यन्मत्स्यजीविभीरभिहितम् ? तत् रात्रावपि गम्यतां कथञ्चिन्निकटं सरः। उक्तञ्च –
विद्यमाना गतिर्येषामन्यत्रापि सुखावहा।
ते न पश्यन्ति विद्वांसो देहभङ्गं कुलक्षयम्।।
तदाकर्ण्य प्रत्युत्पन्नमतिः प्राह – “अहो! सत्मभिहितं भवता, ममापि अभीष्ट मेतत्, तदन्यत्र गम्यतामिति।
तन्नूनं प्रभातसमये मत्स्यजीविनोऽत्र समागम्य मत्स्यसंक्षयं करिष्यन्ति एतन्मम मनसि वर्त्तते। तन्न युक्तं साम्प्रतं क्षणमपि अत्रावस्थातुम्।
अथ तत्समाकर्ण्य प्रोच्चैर्विहस्य यद्भविष्यः प्रोवाच, – “अहो! न भवद्भ्यां मन्त्रितं सम्यगेतदिति। यतः किं वाङ्-मात्रेणापि तेषां पितृपैतामहिकं एतत्सरः त्यक्तुं युज्यते। यदि आयुः क्षयोऽस्ति तदन्यत्र गतानामपि मृत्युर्भविष्यति एव।
तदहं न यास्यामि भवदभ्यां च यत्प्रतिभाति तत्कर्त्तव्यम्”। अथ तस्य तं निश्चयं ज्ञात्वा अनागतविधाता प्रत्युत्पन्नमतिश्च निष्क्रान्तौ सह परिजनेन। अथ प्रभाते तैर्मत्स्यजीविभिर्जालैस्तज्जलाशयमालोक्य यद्भविष्येण सह तत् सरो निर्मत्स्यतां नीतम्।

128. ‘अभिहितम्’ इत्यस्मिन् पदे को धातुः कश्च प्रत्ययः ?
1. हा + क्त
2. हि + क्त
3. धा + क्त
4. धी + क्त
Click To Show Answer
Answer – (3)