गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निम्नलिखितं गद्यांशम् आश्रित्य सप्तप्रश्नानामुत्तराणि यथोचितं विकल्पं चित्वा दत्त।
अस्ति कस्मिंश्चित्प्रदेशे महान् न्यग्रोधपादपः। तत्र वायसदम्पती प्रतिवसतः स्म। अथ तयोः प्रसवकाले वृक्षविवरात् निष्क्रम्य कृष्णसर्पः सदैव तदपत्यानि भक्षयति। ततस्तौ निर्वेदात् अन्यवृक्षमूलनिवासिनं प्रियसुहृदं शृगालं गत्वा ऊचतुः “भद्र! किमेवंविधे सञ्जाते आवयोः कर्त्तव्यम् भवति। एवं तावत् दृष्टात्मा कृष्णसर्पो वृक्षविवरात् निर्गत्य आवयोर्बालकान् भक्षयति। तत् कथ्यतां तद्रक्षार्थं कश्चिदुपायः।
वायस आह- “भद्र! तत्कथय कथं स दुष्टसर्पो वधमुपैष्यति? शृगाल आह- “गच्छतु भवान् कच्चिन्नगरं राजाधिष्ठानम्। तत्र कस्यापि धनिनो राजामात्यादेः प्रमादिनः कनकसूत्रं हारं वा गृहीत्वा तत् कोटरे प्रक्षिप येन। सर्प तद्ग्रहणेन वध्यते”। अथ तत्क्षणात् काकः काकी च तदाकर्ण्य आत्मेच्छयोत्पतितौ। ततश्च काकी किञ्चित्सरः प्राप्य यावत्पश्यति तावत् तन्मध्ये कस्यचिद्राज्ञोऽन्तःपुरं जलासन्नं न्यस्तकनकसूत्रं मुक्तमुक्ताहारवस्त्राभरण जलक्रीडां कुरुते।
अथ सा वायसी कनकसूत्रमेकमादाय स्वगृहाभिमुखं प्रतस्थे। ततश्च कंचुकिनो वर्षधराश्च तं नीयमानमुपलक्ष्य गृहीतलगुडाः सत्वरमनुययुः। काकी अपि सर्पकोटरे तत्कनकसूत्रं प्रक्षिप्य सुदूरमवस्थिता। अथ यावद्राजपुरुषास्तं वृक्षमारुह्य तत् कोटरमवलोकयन्ति तावत्कृष्णसर्पः प्रसारितभोगस्तिष्ठति। ततस्तं लगुडप्रहारेण हत्वा कनकसूत्रमादाय यथाभिलषितं स्थानं गताः। वायसदम्पती अपि| तत: परं सुखेन वसतः अतोऽहं ब्रवीमि- “उपायेन हि यत् कुर्य्यात्” इति। तन्न किञ्चिदिह बुद्धिमतामसाध्यमस्ति।

129. न्यग्रोधपादपस्य कोऽर्थः?
1. जम्बूवृक्षः
2. आम्रवृक्षः
3. शाल्मलीवृक्षः
4. वटवृक्षः
Click To Show Answer
Answer – (4)