गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निर्देशः अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चिनुत।
स्वातन्त्र्यसङ्ग्रामस्य कालः। महात्मा गांधी देशे सर्वत्र सञ्चरन् जनेषु देशभक्तिं जागरयति स्म। देशार्थं यथाशक्तिधनं समर्पणीयम् इति जनान् बोधयति स्म च। तेन प्रभाविताः धनिकाः यथा, तथैव निर्धनाः अपि राष्ट्राय धनं समर्पयन्ति स्म। कदाचिद् ठक्करबापा, गोपबन्धु दासः इत्यादिभिः सह गांधिवर्यः ओडिशाराज्ये प्रवासं कुर्वन् आसीत्। कश्मिंश्चित् लघुरेल्वेस्थानके ते सर्वे यानस्य आगमनं प्रतीक्षमाणाः उपविष्टवन्तः आसन्। अत्रान्तरे कश्चित् वनवासी वृद्धः तत्र आगतवान्। गान्धिवर्यं दृष्ट्वा समीपम् आगत्य श्रद्ध्या चरणस्पर्श पूर्वकं नमस्कारं कृतवान्। सः केवल-कौपीनधारी आसीत्। नितरां कृशश्च आसीत्। तदीय शरीरस्य दुर्बलता एव बोधयति स्म यत् सः नितरां निर्धनः इति। गान्धिवर्यः अन्ये च तस्य व्यवहारं आश्चर्येण पश्यन्तः आसन्।
स वनवासी वृद्धः कटिवस्त्रेण बद्धं पैसामूल्यकं नाणकं निष्कास्य गांधिवर्यस्य पादतले समर्पितवान्। राष्ट्रार्थं सर्वे यथाशक्ति धनं समर्पयन्ति। तेन राष्ट्रकार्ये साहाय्यं भवति। किन्तु एतेन वृद्धेन पैसा मूल्यकं नाणकं समर्प्यमाणम् अस्ति। एतत् नाणकं नितरां अत्यल्पम्। गान्धिवर्यः आश्चर्यम् अनुभवन् पृष्टवान् – “एतत् नाणकं किमर्थ् अत्र स्थापितवान् भवान्”? इति तदा सः निर्धनः वनवासी वृद्धः उक्तवान्- “आर्य! भवान् तु राष्ट्रदेवः। देवदर्शनार्थं यदा वयं गच्छामः तदा देवाय किम समर्पयामः खलु? मया अपि यथाशक्ति समर्पितम्” इति एतत् दृष्ट्वा सन्तुष्टान्तरङ्ग: गांधिवर्यः पार्श्वस्थं गोपबन्धुदासवर्यम् उक्तवान्- “दृष्टं खलु सर्व अपि एतत् एव भारतस्य अन्तरङ्गं नाम। अत्र निर्धनः अकिञ्चनः अपि भावयति यत् यथाशक्ति समर्पणं मम धर्मः इति। एतस्य शरीरं दुर्बलं स्यात्, शक्तिः कुण्ठिता स्यात्, किन्तु आत्माप्रबलः अस्ति। एतादृशा एव भारतस्य प्रतिनिधयः।

127. ‘नितराम्’ इति कथविधं पदम्?
1. क्रिया
2. सर्वनाम
3. क्रियाविशेषणम्
4. विशेषणम्
Click To Show Answer
Answer – (3)