गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निर्देशः अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
जीवनस्य मूल्यम् अर्थात् ते मानवीयगुणाः ये मानवजीवनम् उत्कर्षं प्राप्यन्ति। तेषु प्रमुखाः दया-सत्य-अहिंसा-अस्तेय-अक्रोधादयः सन्ति। मानवजीवनस्य उत्थानाय एतेषां महती आवश्यकता भवति। मनुष्यः वास्तवः मनुष्यः तदैव भवति, यदा सः एतैः गुणैः सुशोभितः भवति। सर्वाङ्गीणविकासाय पुस्तकीय ज्ञानेन समं नैतिकमूल्यान्यपि छात्रैः ग्रहीतव्यानि। बाल्यावस्थायां मूल्यानां शिक्षा प्रदीयते चेत् व्यक्तित्वस्य सर्वाङ्गीण-विकासः भवति। मानवः स्वकीयं पुरुषार्थं करोति, जीवनलक्ष्यं च प्राप्नोति।
भारतीयसंस्कृतौ आदिकालतः एव जीवनमूल्यानां प्राधान्यम् अस्ति। प्राचीनकालादेव भारतीयसंस्कृतेः मूल्यपरकगुणानां स्तुतिः भवति। एतैः गुणैरेव भारतं विश्वगुरुपदं प्राप्नोत्। सम्प्रत्यपि पुनः तत्पदं प्राप्तुं छात्रेषु बाल्यादेव एते संस्काराः स्थापनीयाः। आधुनिकजीवने मानवाः चिन्तावसादतनावैः सम्पीडिताः सन्ति। कदाचित् ते दुःखकातरो भूत्वा आत्महननमपि कुर्वन्ति। एतान् विकारान् निराकर्तुं जीवनमूल्यानां महती भूमिका वर्तते। अतः सम्प्रतिकाले अध्ययनेन सह जीवनमूल्यशिक्षायाः आवश्यकता वर्तते।

129. जीवनमूल्यानि सन्ति
1. उत्कर्षकारणानि
2. अपकर्षकारणानि
3. वैभवकारणानि
4. पराभवकारणानि
Click To Show Answer
Answer – (1)