Part – IV Sanskrit (Language II)
(Official Answer Key)
परीक्षा (Exam) – CTET Paper I Primary Level (Class I to V)
भाग (Part) – Part – IV Language II Sanskrit
परीक्षा आयोजक (Organized) – CBSE
कुल प्रश्न (Number of Question) – 30
परीक्षा तिथि (Exam Date) – 17th January 2021
गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निर्देशः अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं लिखत।
कस्मिंश्चिद् ग्रामे काचिद् वृद्धा निवसति स्म। तस्याः एकः एव पुत्रः। कदाचिद् वृद्धा रुग्ण जाता। सा औषधनिर्माणार्थं लोध्रवृक्षस्य त्वचम् इष्टवती। अतः पुत्रम् उक्तवती- “पुत्र! वने लोध्रवृक्षः अस्ति, भवान् तत्र गत्वा किञ्चिद् त्वचम् आनयतु” इति। पुत्रः परशुं गृहीत्वा वनं गतवान्। लोध्रवृक्षं दृष्टवान्। परशुना तस्य त्वचम् निष्कास्य गृहं प्रति आनीतवान्। वृद्धा तत् स्वीकृत्य औषधं सज्जीकृतवती। तस्य सेवनेन सा स्वस्था अपि जाता। पुनः कदाचिद् माता पुत्रस्य श्वेतवस्त्रम् रक्तरञ्जितम् दृष्टवती।
आतङ्केन सा पुत्रं पृष्टवती – “वत्स! भवतः श्वेतवस्त्रं कथं रक्तरञ्जितम् अस्ति” ? किम् अभवत् ? इति। पुत्रः उक्तवान् – “अम्ब! तस्मिन् दिने भवती मां लोध्रवृक्षस्य त्वचम् आनेतुम् उक्तवती आसीत्। तस्य वृक्षस्य छेदनसमये मम मनसि विचारः उत्पन्नः यत् त्वन्निष्कासन-समये स वृक्षः कियती वेदनाम् अनुभूतवान् स्यात्। यद्यपि सः वृक्षः वक्तुं न शक्नोति, तथापि तस्य वेदना स्यात् एव’ इति। अद्य अहम् निश्चितवान् यत् तस्मिन् समये वृक्षस्य कीदृशी वेदना जाता स्यात् इति मया ज्ञातव्यम् इति। अतः मम शरीरस्य किञ्चिद् चर्म अहमेव निष्कासितवान्। ततः रक्तप्रवाहः भवति । तेन मम श्वेतवस्त्रं रक्तरञ्जितमस्ति” इति पुत्रस्य वचनं श्रुत्वत्याः मातुः नेत्राभ्याम् अश्रुप्रवाहः आरब्धः। पुत्रस्य दयागुणं ज्ञात्वा सा तां गाढं आलिङ्गवती।

121. वृद्धा किम् इष्टवती?
1. निम्बवृक्षस्य त्वचम्।
2. आम्रवृक्षस्य त्वचम्।
3. लोध्रवृक्षस्य त्वचम्।
4. हरिद्रा।
Click To Show Answer
Answer – (3)