गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निर्देशः अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं लिखत।
एकदा महर्षि वाल्मीकिः शिष्यैः सह स्नातुं तमसानदीमगच्छत्। मार्गे सः व्याधेन विद्धमेकं क्रौञ्च – पक्षिणमपश्यत्। सहचरस्य वियोगेन क्रौञ्ची व्याकुलाभवत्। सा च उच्चैः अरूदत्। तस्याः रोदनं श्रुत्वा दुःखं च दृष्ट्वा ऋषिः द्रवीभूतः। क्रौञ्चीक्रन्दनात् जातः ऋषेः शोकः श्लोकरूपेण तस्य मुखादेवं निर्गतः –
मा निषाद् प्रतिष्ठां त्वमगमः शाश्वती समाः।
यत क्रौञ्चमिथुनादेकमवधीः काममोहितम्।
अयमेव श्लोकः लौकिकसाहित्यस्य प्रथमा काव्यरचना। ततः प्रभृतिः ऋषिरयं कवित्त्वं प्राप्तः। ऋषेः कवित्त्वं विज्ञाय विधिः आकाशवाण्या आदेशमयच्छत् – भो मुने! लिख रामायणं काव्यम्। तत्र च रामचरितं वर्णय येन भगवतः रामस्य पुण्यं चरितं विदित्वा लोकाः सन्मार्गस्य अनुसरणं कुर्युः। विधेः आदेशानुसारेण अनेन मुनिना श्लोकबद्धा रामायणी कथा लिखिता। सा चेदानी वाल्मीकिरामायणनाम्ना प्रसिद्धिमुपगता।
अत्र कविना तादृशानि तथ्यानि वर्णितानि यानि मानवजीवनस्य पथप्रदर्शकानि सन्ति। अस्मिन् काव्ये वाल्मीकिना पितुः आज्ञापालनं ,भ्रातृस्नेहः, परोपकारः, दयालुता, दीनरक्षा, इत्यादीनि मानवतायाः पोषकाणि जीवनमूल्यानि वर्णितानि सन्ति, येनायं कविः, तदीयो ग्रन्थश्च आदर्शभूतौ जाती।

134. ‘ब्रह्मा’ इत्यस्य पर्यायपदम् चित्वा लिखत
1. हरिः
2. शिवः
3. विधिः
4. अग्निः
Click To Show Answer
Answer – (3)