गद्यांश पढ़ने के लिए यहाँ क्लिक करें
अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं लिखत।
एकस्य अश्वत्थवृक्षस्य शाखायामेक: काक: स्वचञ्च्वामेकां रोटिकां गृहीत्वा निश्शज्रे निर्भीक: च अतिष्ठत् । अकस्मादेव तत्रैक: कुक्कुर: अपि आगच्छति। काकस्य चञ्चुमध्ये एकां रोटिकां दृष्ट्वा स तस्या: प्राप्त्यर्थं विह्वलो भवति। किचिद् विचार्य तेन काकस्य प्रशंसां कर्तुमारब्धम् । भो काक! अद्याहं पश्यामि, यद् भवान् ब्राह्मणोऽद्भुत् सृष्टिरसि। तव सर्वशरीरमत्यन्तं सुन्दरमस्ति। दूरदर्शिदैदीप्यमानयोस्तव चक्षुषो: शोभा परमकमनीयास्ति। पादौ अपि शक्तिसम्पन्नौ अत्यन्त दृढौ शोभते। तव ध्वनिमाधुर्यं सर्वविदितमेवास्ति।
अद्य मम अहोभाग्यं यत् प्रात: काल एव भवतो दर्शनं सुलभमस्ति। किन्तु अद्य तव मौनस्य किं कारणमस्ति? कथं न भवान् एकं मधुरं गीतं गायति? पश्य, अत्र सर्वे भवतो गानं श्रोतुमुत्सुका: सन्ति। कृपया शीघ्रमेव एकं नूतनं गानं गायतु भवान् । प्रसन्नो भूत्वा यदा काकेन गानमारब्धं तदैव तस्य चञ्च्वातो रोटिका भूमौ पतति। तत्क्षणमेव कुक्कुरस्तां गृहीत्वा पलायित:। काको यत्रापि पश्यति, सर्वे खगास्तस्य परिहासं कुर्वन्ति। स्व मिथ्याप्रशंसां श्रुत्वा योऽपि व्यर्थमेवात्मानं गौरवान्वितं मन्यते, तस्य ईदृश एव परिणामो भवति।

124. क: काकस्य प्रशंसां करोति ?
1. मूषक:
2. कुक्कुर:
3. सिंह:
4. गज:
Click To Show Answer
Answer – (2)
कुत्ता कौए की प्रशंसा करता है।
कुत्ता कौए की प्रशंसा करता है।