गद्यांश पढ़ने के लिए यहाँ क्लिक करें
अधोलिखितं गद्यांशं आश्रित्य सप्तप्रश्नानां उचितं विकल्पं चित्वा उत्तराणि देयानि।
कश्मिंश्चिद् नगरे चन्द्रनामकः राजा आसीत्। तस्य भवनपरिसरे अनेके अश्वाः वानराः मेषाः च वसन्ति स्म। एकदा देव दूर्विपाकात् तस्य अनेके अश्वाः भृशं दग्धाः। राजवैद्येन कथितम् “हयानां दाहोपशमनार्थं वानराणां मेदांसि अपेक्ष्यन्ते” वैद्यवचनानि पालयन् राजा अश्वोपचाराय आदिशत्। एवं अश्वोपचाराय बहवो वानराः घातिताः।
अथ पूर्वमेव त्यक्तराजभवनः वानरयूथपतिः इमं वृत्तान्तम् अश्रृणोत्। सः अचिन्तयत्- कथमेनं राजानं दण्डयामि येन इदं अकार्यं कृतम्। एवं चिन्तयन् सः वने स्थितस्य एकस्य सरोवरस्य वैचित्र्यम् ज्ञातवान्। यः कोऽपि तं सरोवरं प्रविशति स नाशमेति। स तत्र अगच्छत्। दूरस्थः च सन् कमलनालेन सरोवरजलं पातुमारभत्। तत्क्षणमेव रत्नमाला भूषितः एकः राक्षसः जलमध्याद् निष्क्रम्य अवदत् – भो वानर! अत्र सलिले यः प्रवेशः करोति स मे भक्ष्यः, ‘परं त्वम् अतीव चतुरोऽसि, यः जलं अनेन विधिना पिबसि। अतः तुष्टोऽहं प्रार्थयस्व मनोवाञ्छितम्। वानर आह केनचित् दुष्टेन भूपतिना सह मे अत्यन्तं वैरम्। यदि त्वम् एनां रत्नमालां मह्यं प्रयच्छसि, तर्हि तं राजानं प्रलोभ्य अत्र सरसि प्रवेशयामि। प्रसन्नः राक्षसः तस्मै रत्नमालाम् अयच्छत्।
अथ राक्षसदत्तां मालाम् धारयित्वा सः नगरं प्रविष्टः। तत्र केनचित् जनेन धृतः सः राज्ञः समक्षम् आनीतः। राज्ञा पृष्टः सः अभाषत – महाराज वने रत्नमालासनाथं एकं सरः अस्ति। तत्र सूर्योदये यः प्रविशति, स रत्नमालाभूषितः निःसरति। लोभाकृष्टः राजा उवाच – यद्येवं तर्हहम् सपरिवारः – तत्र गमिष्यामि, येन प्रभूताः रत्नमालाः लप्स्ये।
अथ सपरिवारः राजा वानरेण सह वनं गतवान्। तत्र वानरोक्तविधिना राज्ञः सर्वे जनाः जले प्रवेशिताः। सद्य एव ते रत्नमालाभूषितेन राक्षसेण भक्षिताः। विस्मितः नृपः वानरम् अपश्यत्। वृक्षं आरुह्य सः राजानम् उवाच – भो दुष्ट नरपते ! प्रसन्नो भव। नष्टाः ते जनाः। पूर्वं त्वम् अश्वलोभात् पालितवानराणाम् वधं कारितवान्, अधुना लोभवशीभूतः स्वजनानां मृत्योः कारणम् अपि अभूः। धिक् त्वाम् लोभाभिभूतात्मानम् ।

135. ‘तुरङ्गः’ इत्यत्र कः पर्यायवाची गद्यांशे प्रयुक्तः?
1. वानरः
2. हयः
3. वनम्
4. मेषः
Click To Show Answer
Answer – (2)