गद्यांश पढ़ने के लिए यहाँ क्लिक करें
संकेतः – अधोलिखितं गद्यांशं पठित्वा अष्टप्रश्नानां उचितं विकल्पं चित्वा उत्तराणि देयानि।
आदिगुरोः शङ्कराचार्यस्य जन्म केरलप्रान्ते कालडी नामके ग्रामे अभवत्। अस्य पितुः नाम शिवगुरुः आसीत्। अस्य जन्मनः प्रागेव सः दिवङ्गतः। माता आर्याम्बा एवास्य पालनमकरोत्। जन्मनैव प्रतिभासम्पन्नतया स कुलोचिताः विद्याः शीघ्रमेव अधीतवान्। मनसा, वाचा, कर्मणा च विरक्तः शङ्करः मातरं सन्यासस्यानुमतिम् अयाचत्। पुत्रस्नेहपरवशा सा शङ्करस्य इमां प्रार्थनां न स्वीकृतवती।
एकदा शङ्करः नद्यां स्नातुं गतः। तत्र नक्रेण गृहीतः स उच्चै आक्रोशत्। आक्रोशं श्रुत्वा माता नदीतीरं गता पुत्रं च नक्रेण गृहीतम् अपश्यत्। शङ्करः अवदत्- “अम्ब! यदि सन्यासं ग्रहीतुं मामनुमंस्यसे तर्हि अहं नक्रात् मुक्तो भविष्यामि।” अनिच्छन्त्यपि माता – “ वत्स! यथा तुभ्यं रोचते तथा कुरु” इति कष्टेनाकथयत्। एतच्छ्रुत्वा शङ्करः नक्रात मुक्तः अभवत्। नद्याः बहिर्निर्गत्य मातुः चरणयोः प्रणामं कृत्वा सः अवदत्,
“मातः! यद्यपि गच्छाम्यहं संन्यासाय तथापि यदैव त्वं मां स्मरिष्यसि तदैव उपस्थितो भविष्यामि।” एवं प्रतिज्ञाय गृहात् निरगच्छत्।
अथ परिव्राजकैः सः देशाद्देशं पर्यटन् शङ्करः काश्यां गोविन्दपादाचार्येभ्यः वेदान्तविद्यामधीतवान्। अनन्तरं मुख्यानाम् उपनिषदाम्, ब्रह्मसूत्राणां श्रीमद्भगवद्गीतायाश्च भाष्याणि अरचयत्। अनेन विरचितानि बहूनि स्त्रोतकाव्यान्यपि सन्ति येषु भजगोविन्दस्त्रोतम् अतीव लोकप्रियमस्ति।
एवं मन्यते यत् मरणासन्ना माता यदैवास्य स्मरणं अकरोत् तदैवायं तत्समीपं आगच्छत्। दिवं गतायां मातरि संन्यस्तोऽपि सः पुत्रोचितं सर्वं कृत्यं सम्पादितवान्। ततः सर्वतः परिभ्रमन् स जनेभ्यः अद्वैतवेदान्तसिद्धान्तस्य ज्ञानमुपदिष्टवान्।
अस्मिन्नेव प्रचारक्रमे स द्वारिकायां, बदर्यां, जगन्नाथपुर्या, श्रृङ्गेर्यां, च चतुरः मठान् समस्थापयत्। अन्ते च द्वात्रिंशे एव वयसि स ब्रह्मभावम् उपगतः।

123. शङ्करस्य पिता कदा दिवङगतः?
1. शङ्करस्य जन्मनः पश्चाद्
2. शङ्करस्य जन्मनः पूर्वम्
3. शङ्करस्य सन्यासग्रहणानन्तरम्
4. शङ्करस्य मातुः मृत्योरनन्तरम्
Click To Show Answer
Answer – (2)