अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानाम् उत्तरं समुचितं विकल्पं चित्वा लिखत।
गद्यांश पढ़ने के लिए यहाँ क्लिक करें
प्राचीनकालादेव भारतवर्षे इक्ष्वाकुनामा चक्रवर्ती सम्राड् आसीत्। स न्यायप्रियः आसीत्। तस्य न्यायप्रियतायाः कीर्तिः विश्वस्मिन् भुवने प्रसृता बभूव। लोकानां समस्याः श्रोतुं स प्रतिदिनं राजसभाम् अकरोत्। तस्यां राजसभायां स प्रजाजनानां विवादान् अपि अशृणोत् निर्णयं चाकरोत्।
एकस्मिन् दिवसे द्वे स्त्रियौ तस्य सभायां समागते। सम्राजः आदेशं प्राप्य एका महिला अवदत् – स्वामिन् ! सप्तदिनेभ्यः पूर्वं अहं गङ्गातटे स्नानम् अकरोत्। स्नानात् पूर्वं अहम् स्वपुत्रशिशुं गङ्गातटे एव अस्वापयम्। स्नानं कृत्वा यदाऽहं पुनः तटे समागता मया दृष्टं यन्मम शिशुः तत्र नासीत्। तस्माद् दिवसादेव शोकाकुला अहं स्वपुत्रम् अन्वेष्टुं प्रतिदिनं नदीतटे व्यचरम्। अद्य मया स्वपुत्रः अस्याः स्त्रियः अङ्के दृष्टः। यः खलु शिशुः अस्याः महिलायाः साम्प्रतम् अङ्के विद्यते सः ममैव पुत्रः। परन्तु सा मह्यं न ददाति।
राज्ञः आदेशं प्राप्य अपरा स्त्री अवदत् – स्वामिन्! क्षम्यताम्। इयं स्त्री मिथ्या वदति। एषः शिशु ममैव पुत्रः। किं भवान् न पश्यति यत् शिशुः अयं मया सह कीदृशः संसक्तः अस्ति। मम अङ्के स्मयति क्रीडति च। यदि शिशुरयं तस्याः अपि अङ्के एवमेव क्रीडति, तदा तस्मै दीयताम्, अन्यथा ममैव पार्श्वे स्यात्। सम्राट् द्वितीयायाः स्त्रियः तर्क श्रुत्वा प्रथमाम् स्त्रियमवदत् – “त्वमेनं शिशुं गृहाण। यदि एषः शिशुः तव सकाशं प्रसन्नतया आगच्छति तदा मंस्ये यदेषः तव पुत्रः।”
राज्ञः आज्ञां गृहीत्वा द्वितीयायाः स्त्रियः अङ्कात् शिशुं प्राप्तुम् अयतत। परन्तु शिशुः तस्याः सकाशं नागच्छत्। राजा प्रथमां स्त्रियम् अकथयत् – देवि! यदि एषः शिशुः तव पुत्रः स्यात् तदावश्यमेवं त्वमागच्छेत्। अतः एनं द्वितीयायै स्त्रिये एव ददामि। प्रथमा स्त्री रुदती अवदत् – राजन्, नैषः न्यायः। अहं सत्यं वदामि। एषः ममैव पुत्रः। अल्पवयाः अयं शिशुः। अतः एतेषु दिवसेषु मां विस्मृतवान्।
राजा संशये आगच्छत्। विचार्य अवदत् – मन्ये एषः शिशुः उभयोः एव वर्तते। अत एव प्रत्येकं अर्धं अर्धं गृहाण।
एतद् निर्णयं कृत्वा स राजपुरुषान् शिशोः द्वे शकले कर्तुम् आदिदेश। सर्वे सभासदः राज्ञः निर्णयं श्रुत्वा आश्चर्यचकिताः अभवन्। यदा राजपुरुषः शिशोः शकले कर्तुं परशुमानयत् तदा प्रथमा स्त्री भृशमरोदीत् तारस्वरेण चावदत् – “मैवं कुरु। मम पुत्रं मां जहि। एषः शिशुः तस्यै एव दीयताम्”।
राजा अजानत् यदेषः शिशुः प्रथमायाः एव स्त्रियः अस्ति। स शिशुः प्रथमायै एव दत्तः।

135. ‘अस्मिन काले’ इत्यस्मिन् अर्थे गद्यांशे कः शब्दः प्रयुक्तः ?
1. प्रतिदिनम्
2. विश्वस्मिन्
3. पूर्वम्
4. साम्प्रतम्
Click To Show Answer
Answer – (4)