गद्यांश पढ़ने के लिए यहाँ क्लिक करें
अधोलिखितं गद्यांशमाश्रित्य प्रश्नानां विकल्पात्मकोत्तरेषु समुचितं विकल्पं चिनुत।
अद्यत्वे महानगरेषु पर्यावरणस्य महती समस्या विद्यते। वाहनानां सङ्ख्या दिनं दिनं वर्धते। वाहनेषु यदिन्धनं प्रयुज्यते, तस्य धूमेन वायुः निरन्तरं प्रदुष्यति। महानगरेषु तेषां पार्श्ववर्तिषु क्षेत्रेषु उद्योगानां जालनिबहः भूयो भूयो वर्धते। अधिकांशतः उद्योगाः प्रदूषणकारिणः सन्ति यतः उद्योगेषु प्रयुक्तानां कलयन्त्राणाम् धूमः सर्वतः प्रसरति। अनेन वायुप्रदूषणं सह्यसीमानाम् अतिलङ्घ्य वायुमण्डलं दूषितं करोति।
वायुप्रदूषणेन सह ध्वनिप्रदूषणमपि प्रभूततया वर्धते। वाहनानां कलयन्त्राणां यन्त्रचालितोपकरणानां ध्वनयः सम्मिल्य महाध्वनिमुत्पादयन्ति विवाहादिमहोत्सवेष्वपि उच्चस्वरेण वाद्ययन्त्राणि वाद्यन्ते तेषां तारध्वनिभिः न केवलं वायुमण्डलं प्रदूषितं भवति, अपितु लोकानां मानसिकशान्तिरपि विनश्यति। मानसिकशान्तेर्विनाशात् शरीरं रुग्णं भवति। न केवलमेतदेव। मनसो विक्षोभात् चित्तमुद्विग्नं भवति, येन निद्रारोगः उपजायते। निद्रारोगेण अवसाद-उच्च-रक्तचाप-हृदयाघात्-कर्क-रोगादिव्याधयः मानवसमाजं निरन्तरं त्रासयन्ति।
अद्य जलप्रदूषणस्यापि महती समस्या विद्यते। गृहाणां प्रदूषितं जलं, उद्योगानां रसायन-मिश्रितं जलं निस्सरणनलिकाभिः नदीषु गत्वा ताः प्रदूषिताः करोति। अस्मादेव कारणात् नदीनां जलं पेयं न भवति। प्रदूषितेन जलेनापि बहवो व्याधयः उत्पाद्यन्ते।
यद्यपि प्रशासनैः, स्वायत्तसंस्थाभिः, संयुक्त-राष्ट्रसङ्घादिभिर्विश्वसंस्थाभिः प्रदूषणं नियन्त्रयितुं निरन्तरं प्रयत्नाः क्रियन्ते परन्तु प्रदूषणमधिकाधिकं वर्धते। आणविक-शस्त्रास्त्राणां परीक्षणैरपि वायुमण्डलं प्रदूषितं भवति।
निरन्तरं वर्धमानायाः प्रदूषणसमस्यायाः नियन्त्रणं सर्वथावश्यकं वर्तते। अन्यथा कालान्तरे पृथिवी जीवनयोग्या न भविष्यति। यद्यपि वैज्ञानिकाविष्कारैर्मानवस्य महान् उपकारः कृतः परन्तु पर्यावरणस्य हानिरपि कृता। अत एव वैज्ञानिकैर्मिलित्वा विचारयितव्यं यद् वैज्ञानिकज्ञानस्य प्रयोगः मानवस्य विकासायैव भवेन्न विनाशाय।

125. ‘रोगाः’ इत्यस्यार्थे कः शब्दः प्रयुक्तः ?
1. रुग्णाः
2. व्याधयः
3. प्रदूषणकारिणः
4. संतापाः
Click To Show Answer
Answer – (2)