गद्यांश पढ़ने के लिए यहाँ क्लिक करें
अधोलिखितं गद्यांशं पठित्वा सप्तप्रश्नानां उचितं विकल्पं चित्वा उत्तराणि देयानि। ऋतु हेमन्त:। प्रभातस्य वेला। शैत्यं संवर्धयन् शीत: वायु: प्रवहति स्म। सर्वेऽपि कम्बलेन आवृत्ता: शय्याम् अवलम्बन्ते स्म। सहसा दूरात् मधुर: परं च शैत्यप्रभत्प्रकम्पमान: ध्वनि: श्रोत्रमार्गमुपगत:- ‘कमनीयानि कुसुमानि, सुगन्धीनि पुष्पाणि, क्रीणन्तु, गृह्णन्तु, इमानि कुसुमानि भवन्त:’ इति।
शनै: शनै: स ध्वनि: मम समीपे एव श्रुतिगोचर: जात:। कम्बलात् बहि: मुखम् आनीय गवाक्षेणाहमपश्यम्-काचित् बालिका मम गृहाङ्गणे पुष्पभाजनं वहन्ती स्थितास्तीति। सा च मां दृष्टवा ‘प्रभो! कमनीयानि इमानि पुष्पाणि’ इति प्रार्थयत।
‘बालिके’! अस्मिन् शीतसमये कथं त्वं गृहात् बहि:, शैत्यं सहसे? इत्यहमपृच्छम्। सा शनै: शनै: दु:खमयीं कथाम् अकथयत् – ‘प्रभो! वयं दरिद्रा:। अहं पितृभ्यां, मातृभ्यां च सह रथ्याया: पाश्र्वे वसामि। मम जीवन- दातारौ पितरौ रोगाक्रान्तौ शय्यावलम्बिनौ च जातौ। ज्येष्ठभ्राता पङ्गु:’ मूकश्च जात: अनुजश्च बाल: एव। द्वौ एव भ्रातरौ पित्रो: सेवा-कर्तारौ सक्षमौ न स्त:। ह्य: रात्रौ वयं न किमपि अभक्षयाम। प्रभाते भोजनाय न किमपि अस्ति गृहे।
एतेषां पुष्पाणां विक्रयेण यत् धनं लप्स्यते तेन पित्रो: मम च भोजनाय किञ्चित् क्रेतुमिच्छामि। अत: दीना: वयं कथं कथमपि शैत्यं सहामहे’ इति अहमचिन्तयम् -‘अहो! दारिद्रयं किं न कारयति? इयं बालिका शैत्यं सहिष्यते, तस्या: पितरौ, भ्रातरौ वा कथं सहिष्येते? पित्रो: ज्येष्ठे भ्रातरि चास्या: भक्ति: अनुजे च भ्रातरि अस्या: स्नेहश्च प्रशंसामर्हत:।’ एवं विचिन्त्य अहं कुसुमानि सर्वाण्यपि गृहीत्वा तस्यै शतं रूप्यकाणि कानिचित् वस्त्राणि च अयच्छम् । सा विस्मयेन मम मुखं विलोकयन्ती अतिष्ठत् । अहं तामाश्वासयन अवदम् – ‘गृहाण सर्वमेतद्, गृहं च गच्छ। पितरौ भ्रातरौ आत्मानं च आहारेण संतोषय। इमानि च वस्त्राणि तव कृते, तव पित्रो: भ्रात्रोश्च कृते सन्ति। तेन तव पितरौ भ्रातरौ त्वं च शैत्यात् मुक्ता: भविष्यथ।’ सा रूप्यकाणि वस्त्राणि च गृहीत्वा कृतज्ञतापूर्णाभ्यां नेत्राभ्यां मां विलोकयन्ती अगच्छत्।

133. ‘सहिष्येते’ इत्यस्य व्युत्पत्ति: का अस्ति ?
1. सह + लट् + प्र.पु. द्विवचनम्
2. सह + लृट् + म.पु. एकवचनम्
3. सह + लङ् + प्र.पु. द्विवचनम्
4. सह् + लृट् + प्र.पु. द्विवचनम्
Click To Show Answer
Answer – (4)
सहिष्येते रूप लृट्लकार प्र.पु. द्विवचन का है।
सह् · (सहन करना) आत्मनेपदी लृट् लकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष सहिष्यते सहिष्येते सहिष्यन्ते मध्यम पुरुष सहिष्यसे सहिष्येथे सहिष्येध्वे उत्तम पुरुष सहिष्ये सहिष्यावहे सहिष्यामहे