गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निम्नलिखितं गद्यांशं पठित्वा नवप्रश्नानां उत्तरं उचिततमं विकल्पं चित्वा लिखत-
एतत् विशालमुद्यानम् अस्माकमस्ति। एतस्मिन् उद्याने विविधा: वृक्षा: सन्ति। उद्यानस्य प्रान्तेषु निम्बतरव: आरोपिता: सन्ति। वसन्तर्तौ एतेषां वृक्षाणाम् कुसुमानि वायुमण्डलम् सुगन्धेन पूरयन्ति। एतेषां छाया घना, स्वास्थ्यकरी च भवति। जना: ग्रीष्मर्तौ एतेषां वृक्षाणां छायायां स्थित्वा तापमपनयन्ति।
निम्बतरूणामनन्तरमुद्यानं परित: एव सरणि: अस्ति। सरणे: अनन्तरं आम्रपादपा: पुन: चैका सरणि: अस्ति। प्रात: काले जना: अत्र व्यायामायागच्छन्ति। सरणिषु च धावन्ति भ्रमन्ति वा। सरणीनां तटेषु विविधा: कुसुम पादपा: अपि सन्ति। तेषु शतपत्री, गन्धराज:, मल्लिका, मालती, सूर्यकमलं, च जनानां चित्तं विशेषत: हरन्ति। जना: तानि पुष्पाणि जिघ्रन्ति चित्तं च विनोदयन्ति।
आम्रवृक्षाणामनन्तरं दाडिमानां, जम्बीराणां, मधुरजम्बीराणां, नारङ्गानां, कदलीफलानां च पादपा: सन्ति।
अस्माकं उद्याने मुरारि: अस्माकं मालाकार: अस्ति। स: सर्वं दिनमत्र कार्यं करोति। स: संरक्षणे, आरोपणे, सिञ्चने चातीव चतुर:।
अहमप्यत्रोद्याने कार्यं करोमि। एष: मम केदार:। एतस्मिन् केदारेऽहंशाकान् आरोपयामि। पश्यत मम हस्ते खनित्रमस्ति। खनित्रेण भूमे: खननं भवति। खननानन्तरमत्र बीजानि वप्स्यामि। मम केदारस्य समीपे केचित् पादपा: अपि सन्ति। तेषां पादपानामहमेव सिञ्चनं रक्षणं च करोमि। उद्याने कार्यं कृत्वाऽहम् प्रसन्नो भवामि। एतेन पादपै: सह मम परिचयोऽपि भवति, व्यायामोऽपि च।
अस्माकमुद्यानात् विविधानि फलानि, शाका:, पुष्पाणि च नगरे गच्छन्ति। तत्रैतेषां विक्रय: भवति। फलादीनां विक्रयेणास्माकं पर्याप्त: आयो भवति। तेनैव गृहस्य निर्वाह: भवति। इत्थमस्माकमुद्यानं अतीव लाभकरमस्ति।

126. उद्याने भूमे: खननं केन यन्त्रेण भवति?
1. परशुना
2. हलेन
3. खनित्रेण
4. केदारेण
Click To Show Answer
Answer – (3)
बगीचे में भूमि को खनित्र (खोदने वाला यंत्र-कुदाल या खुरपी) के माध्यम से खोदा जाता है। ‘खनित्र’ शब्द के पर्यायवाची शब्दों में अवदारक, अवदारण, खनता, रम्भा आदि होते हैं। जबकि ‘परशु’ शब्द को ‘फरसा’ और ‘हल’ को ‘सीर’ कहते हैं।