गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निम्नलिखितं गद्यांशं पठित्वा अष्टप्रश्नानां उचितं विकल्पं चित्वा उत्तराणि देयानि ।
बालिकायाः अनारिकायाः मनसि सर्वदा महती जिज्ञासा भवति। अतः सा बहून प्रश्नान् पृच्छति। तस्याः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।
प्रातः उत्थाय सा अन्वभवत् यत् तस्याः मनः प्रसन्नं नास्ति। मनोविनोदाय सा भ्रमितुं गृहात् बहिः अगच्छत्।भ्रमणकाले सा अपश्यत् यत् मार्गाः सुसज्जिताः सन्ति। सा चिन्तयति – किमर्थम् इयं सज्जा ? सा अस्मरत् यत् अद्य तु मन्त्री आगमिष्यति। सः अत्र किमर्थम् आगमिष्यति इति विषये तस्याः जिज्ञासाः प्रारब्धाः। गृहम् आगत्य सा पितरम् अपृच्छत् – “पितः! मन्त्री किमर्थम् आगच्छति ?” पिता अवदत् – “पुत्रि! नद्याः उपरि नवीनः सेतुः निर्मितः। तस्य उद्घाटनार्थं मन्त्री आगच्छति।” अनारिका पुनः अपृच्छत्- “पितः! किं मन्त्री सेतोः निर्माणम् अकरोत् ? ” पिता अकथयत् – ? “न हि पुत्रि! सेतोः निर्माणं कर्मकराः अकुर्वन्।” पुनः अनारिकायाः प्रश्नः आसीत्- “यदि कर्मकराः सेतोः निर्माणम् अकुर्वन्, तदा मन्त्री किमर्थम् आगच्छति ?” पिता अवदत् – “यतो हि सः अस्माकं देशस्य मन्त्री।” “पितः! सेतोः निर्माणाय प्रस्तराणि कुतः आयान्ति ? किं तानि मन्त्री ददाति ?
विरक्तभावेन पिता उदतरत् – “अनारिके! प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति।” “पितः! तर्हि किम्, एतदर्थं मन्त्री धनं ददाति ? तस्य पार्श्वे धनानि कुतः आगच्छन्ति ?” तान् प्रश्नान् श्रुत्वा पिताऽवदत् – “अरे! प्रजाः सर्वकाराय धनं प्रयच्छन्ति। विस्मिता अनारिका पुनः अपृच्छत् – “पितः! कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति। ते एव सेतुं निर्मान्ति।” प्रजाः सर्वकाराय धनं ददति। तथापि सेतोः उद्घाटनार्थं मन्त्री किमर्थम् आगच्छति?”
पिता अवदत् -“प्रथमेव अहम् अकथयम् यत् सः एव देशस्य मन्त्री अस्ति। बहुप्रश्नान् करोषि। चल, सुसज्जिता भूत्वा विद्यालयं चल।” इदानीम् अपि अनारिकायाः मनसि बहवः प्रश्नाः सन्ति।

124. सेतोः निर्माणम् कः अकरोत् ?
1. मन्त्रिणः कर्मचारिणः।
2. मन्त्रिणः परिवारजनाः।
3. सामान्या कर्मकराः।
4. लौहकाराः।
Click To Show Answer
Answer – (3)