गद्यांश पढ़ने के लिए यहाँ क्लिक करें
संकेत: अधोलिखितेषु गद्याशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत-
कश्चित् कृषकः बलीवर्दाभ्यां कर्षणं कुर्वन् आसीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तचासीत्। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। स वृषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः। भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्। सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत् -अयि शुभे !किमेवं रोदिषि ?उच्यताम् इति। सा च “भो वासव !पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्रुहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न ? इति प्रत्यावोचत्।
“भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्”? इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्- दुर्बले सुतेः मातुः अभ्यधिका कृपा सहजैव इति। सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्। सा च तामेवमसान्त्वयत् – गच्छ वत्से! सर्वं भद्रं जायेत्। ‘अचिरादेव चण्डवातेन् मेघरवैश्च सह प्रवर्षः समजायत। लोकानां पश्यताम् एव सर्वत्र जलोपप्लवः सञ्जातः। कृषकः हर्षातिरेकेण कर्षणविमुखः सन् वृषभौ नीत्वा गृहमगात्।

135. ‘अचिरादेव’ इत्यस्य पदनिर्देशं कुरुत-
1. अव्ययपदम्
2. संज्ञापदम्
3. क्रियापदम्
4. सर्वनामपदम्
Click To Show Answer
Answer -(1)