गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निम्नलिखित गद्यांशं पठित्वा सप्तप्रश्नानां समुचितानि उत्तराणि उपयुक्तं विकल्प चित्वा देयानि –
पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म। कालेन तस्याः संततिः जाता। एकदा कश्चिद प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत्। चटकायाः नीडं भुवि अपतत्। तेन अण्डानि विशीर्णानि। अथ सा चटका व्यलपत्। तस्याः विलापं श्रुत्वा काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत्- “भद्रे किमर्थं विलपसि?” इति
चटकावदत् – “दुष्टेनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्”। ततः काष्ठकूटः तां वीणारवा-नाम्न्याः मक्षिकायाः समीपम् अनयत्। तयोः वार्ता श्रुत्वा मक्षिकावदत्- “ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्यामः”। तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्।
मेघनादः अवदत् – “यथाहं कथयामि तथा कुरुतम् मक्षिके! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य स्थापयति। तदा काष्ठकूटः चञ्च्वा तस्य नयने स्फोटयिष्यति। एवं सः गजः अन्धः भविष्यति। तृषार्तः सः जलाशयं गमिष्यति। मार्गे महान् गर्त्तः अस्ति।
तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि। मम शब्देन तं गर्त जलाशयं मत्वा स तस्मिन्नेव गर्ने पतिष्यति मरिष्यति च”। अथ तथा कृते सः गजः मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतितः मृतः च। तथा चोक्तम् –
बहूनामप्यसाराणां समवायो हि दुर्जयः

132. गजः गर्तं भ्रमात् जलाशयम् अमन्यत् किं कारणम् ?
1. गजस्य दुःखेन बुद्धिः कुण्ठिता अभवत्।
2. मण्डूकस्य स्वरं श्रुत्वा गजः गर्तमेव जलाशयम् अमन्यत।
3. गजः मन्दबुद्धिः आसीत्।
4. पिपासाकुलः अन्धीभूतो गजो निर्णेतुं नाशक्नोत्।
Click To Show Answer
Answer – (2)