गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निम्नलिखितं गद्यांशं पठित्वा सप्तप्रश्नानां समुचितानि उत्तराणि यथोचितं विकल्पं चित्वा देयानि-
आसीत् कश्चित् चञ्चलो नाम व्याध: पक्षिमृगादीनां ग्रहणेन स: स्वीयां जीविकां निर्वाहयति स्म। एकदा स: वने जालं विस्तीर्य आगतवान् । अन्यास्मिन् दिवसे प्रात: काले यदा चञ्चल: वनं गतवान् तदा स:दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्याद् एक: व्याघ्र: बद्ध: आसीत् । सोऽचिन्तयत् ‘व्याघ्र: मां खादिष्यति। अत एव पलायनं करणीयम्’ व्याघ्र: न्यवेदयत् – ‘भो मानव! कल्याणं भवतु ते। यदि त्वं मां, मोचयिष्यसि तर्हि अहम् त्वां न हनिष्यामि।’ तदा स: व्याध: व्याघ्रं जालात् बहि: निरसारयत् । व्याघ्र: क्लान्त: आसीत् । सोऽवदत् ‘भो मानव! पिपासु अहम् । नद्या: जलमानीय मम पिपासां शमय। व्याघ्र: जलं पीत्वा पुन: व्याधमवदत्, ‘शान्ता मे पिपासा। साम्प्रतं बुभुक्षितोऽस्मि इदानीं अहं त्वां खादिष्यामि। चञ्चल: उक्तवान् ‘अहम् त्वत्कृते धर्मम् आचरितवान्’ त्वया मिथ्या भणितम् । त्वम् मां खादितुम् इच्छसि?
व्याघ्र: अवदत् ‘अरे मूर्ख! धर्मे धमनं पापे पुण्यं भवति एव। पृच्छ कमपि।’
चञ्चल: नदीजलम् अपृच्छत् । नदीजलम् अवदत् ‘एवमेव भवति, जना: मयि स्नानं कुर्वन्ति, वस्त्राणि प्रक्षालयन्ति तथा च मलमूत्रादिकं विसृज्य निवर्तन्ते, अत: धर्मे धमनं पापे पुण्यं भवति एव।’
चञ्चल: वृक्षं उपगम्य अपृच्छत् । वृक्ष: अवदत् , ‘मानवा: अस्माकं छायायां विरमन्ति। अस्माकं फलानि खादन्ति, पुन: कुठारै: प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति। यत्र कुत्रापि छेदनं कुर्वन्ति। धर्मे धमनं पापे पुण्यं भवति एव’।
समीपे एका लोमशिका बदरी-गुल्मानां पृष्ठे निलीना एतां वार्तां शृणोति स्म। सा सहसा चञ्चलमुपसृत्य कथयति- ‘‘का वार्ता? माम् अपि विज्ञापय’’ स: अवदत् – ‘‘अहह मातृस्वस:! अवसरे त्वं समागतवती। मया अस्य व्याघ्रस्य प्राणा: रक्षिता:, परम् एष: मामेव खादितुं इच्छति’’। तदनन्तरं स: लोमशिकायै निखिलां कथां न्यवेदयत् ।
लोमशिका चञ्चलम् अकथयत् – बाढम्, त्वं जालं प्रसारय। पुन: सा व्याघ्रं अवदत् -केन प्रकारेण त्वम् एतास्मिन् जाले बद्ध: इति अहं प्रत्यक्षं द्रष्टुमिच्छामि। व्याघ्र: तद् वृत्तान्तं प्रदर्शयितुं तस्मिन् जाले प्राविशत् । लोमशिका पुन: अकथयत् – सम्प्रति पुन: पुन: कूर्दनं कृत्वा दर्शय। स: तथैव समाचरत् । अनारतं कूर्दनेन स: श्रान्त: अभवत् । जाले बद्ध: स: व्याघ्र: क्लान्त: सन् नि:सहायो भूत्वा तत्र अपतत् प्राणभिक्षामिव च अयाचत। लोमशिका व्याघ्रम् अवदत् ‘सत्यं त्वया भणितम्’ धर्मे धमनं पापे पुण्यं भवति एव’। जाले पुन: तं बद्धं दृष्ट्वा स: व्याध: प्रसन्नो भूत्वा गृहं प्रत्यावर्तत।

125. ‘उपगम्य’ इत्यस्य शब्दस्य कोऽर्थ:?
1. प्रणामं कृत्वा
2. समीपं गत्वा
3. जलेन सिक्त्वा
4. स्पर्शं कृत्वा
Click To Show Answer
Answer – (2)
उपगम्य इस शब्द का अर्थ है- समीपं गत्वा (समीप जाकर)। उपगम्य- उप + गम् + ल्यप् – पूर्वकालिक क्रिया के अर्थ में ‘ल्यप्’ प्रत्यय का भी प्रयोग होता है। जहाँ पर धातु से पूर्व कोई उपसर्ग लगा होता है, वहाँ ‘क्त्वा’ के स्थान पर ‘ल्यप्’ प्रत्यय का प्रयोग किया जताा है। ‘ल्यप्’ प्रत्ययान्त शब्द भी अव्यय के रूप में ही प्रयोग किए जाते हैं। उदाहरण-प्र + नम् + ल्यप् = प्रणम्य, आ + दा + ल्यप् = आदाय, वि + ज्ञा + ल्यप् = विज्ञाय। गत्वा- गम् + क्त्वा – वाक्य में मुख्य क्रिया से पूर्व किए गए कार्य में पूर्वकालिक क्रिया को व्यक्त करने के लिए धातु में क्त्वा प्रत्यय का प्रयोग किया जाता है। उदाहरण- कृ + क्त्वा = कृत्वा, पा + क्त्वा = पीत्वा, श्रु + क्त्वा = श्रुत्वा।