गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निम्नलिखितं गद्यांशं पठित्वा सप्तप्रश्नानां दत्तविकल्पेषु यथोचितं उत्तरं दीयताम् –
कस्मिंश्चिद्वने भासुरको नाम सिंह: प्रतिवसति स्म। अथासौ वीय्र्याति रेकान्नित्यमेवानेकान् मृगशशकादीन् व्यापादयन्न उपरराम। अथान्येद्युस्तद्वनजा: सर्वे सारङ्गवराहमहिषशशकादयो मिलित्वा तमभ्युपेत्य प्रोचु: – ‘‘स्वामिन! किमनेन सकलमृगवधेन नित्यमेव ? यतस्तव एकेनापि मृगेण तृप्तिर्भवति। तत् क्रियतामस्माभि: सह समयधम्र्म:। अद्य प्रभृति तव अत्रोपविष्टस्य जातिक्रमेण प्रतिदिनमेको मृगो भक्षणार्थं समेष्यति। एवं कृते तव तावत्प्राणयात्रा क्लेशं विना अपि भविष्यति, अस्माकञ्च पुन: सर्वोच्छेदनं न स्यात् । तदेष राजधर्मोऽनुष्ठीयताम् ।
अथ तेषां तद्वचनमाकण्र्य भासुरक आह-‘‘अहो! सत्यमभिहितं भवद्भि: परं यदि ममोपविष्टस्यात्र नित्यमेव नैक: श्वापद: समागमिष्यति तन्नूनं सर्वानपि भक्षयिष्यामि’’। अथ ते तथैव प्रतिज्ञाय निर्वृत्तिभाज: तत्रैव वने निर्भया: पय्र्यटन्ति। एकश्च प्रतिदिनं क्रमेण याति। वृद्धो वा वैराग्ययुक्तो वा, शोकग्रस्तो वा, पुत्रकलत्रनाशभीतो वा, तेषां मध्यात्तस्य भोजनार्थं मध्याह्नसमये उपतिष्ठते।
अथ कदाचित् जातिक्रमाच्छशकस्य अवसर: समायात:। स समस्त मृगै: प्रेरितोऽनिच्छन्नपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन् वेलातिक्रमं कृत्वा व्याकुलितहृदयो यावत् गच्छति तावत् मार्गे गच्छता कूप: संदृष्ट:। यावत्कूपोपरि याति तावत्कूपमध्ये आत्मन: प्रतिबिम्बं ददर्श। दृष्ट्वा च तेन हृदये चिन्तितं। ‘‘यद्भव्य उपायोऽस्ति, अहं भासुरकं प्रकोप्य स्वबुद्धया अस्मिन् कूपे पातयिष्यामि’’ अथासौ दिनशेषे भासुरकसमीपं प्राप्त:। सिंहोऽपि वेलातिक्रमेण क्षुत्क्षामकण्ठ: कोपाविष्ट: सृक्किणी परिलेलिहन् व्यचिन्तयत्। ‘‘अहो! प्रातराहाराय नि:सत्त्वं वनं मया कत्र्तव्यम्।’’

130. सिंह: किं कुर्वन् न उपरराम?
1. वनचरान् पशून् व्यापादयन्
2. मृगयार्थं धावन्
3. नदीतटवासिन: मृगान् खादन्
4. जलचराणां वधं कुर्वन्
Click To Show Answer
Answer -(1)
प्रस्तुत गद्यांश में वर्णित सिंह वन में रहने वाले पशुओं का वध करके विश्राम करता था।