गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निम्नलिखितं गद्यांशं पठित्वा अष्टप्रश्नानां उत्तराणि उचितं विकल्पं चित्वा देयानि।
पुरा ‘शोभावती’ इति नगर्यां शूद्रको नाम शूरः प्रजावत्सलः च राजा अभूत्। एकदा तस्य राजसभायां कश्चन् वीरवरो नाम राजपुत्रः सेवार्थम् आगतः। सः राजानं स्ववृत्तये प्रतिदिनं दीनारशतपञ्चकम् अयाचत्। अमात्यैः सह विचारविमर्शं कृत्वा राजा तावतीं वृत्तिं स्वीकृतवान्।
वीरवरः नित्यं प्रातः राज्ञः दर्शनं विधाय धृतायुधः सिंहद्वारे स्थित्वा सिंहद्वारं रक्षति स्म। मध्याह्ने च निजावासं गच्छति स्म। ततश्च स्ववृत्तिलब्धानां दीनाराणां शतं भोजनार्थं, शतं च अङ्गरागताम्बूलादिक्रयणे, शतं विष्णोः शिवस्य च पूजार्थं व्ययं करोति स्म। विप्रेभ्यश्च दीनेभ्यश्च स शतद्वयं दानरूपेण ददाति स्म। एवञ्च पञ्चापि शतानि नित्यमसौ विभजति स्म। पुनश्च निशि करे करवालं धृत्वा सिंहद्वारं रक्षति स्म। राजापि स्वानुचरैः तस्य एतादृशीं दैनन्दिनीं ज्ञात्वा हृदये महान्तं सन्तोषम् अन्वभवत्।
अथैकदा कृष्णचतुर्दश्यां गहनान्धकारे रात्रौ स राजा कस्या अपि क्रन्दनध्वनिम् अशृणोत्। शूद्रकः तस्या ध्वनेः निरूपणाय वीरवरम् आदिशत्। वीरवरः ध्वनिमनुसरन् अगच्छत्। अयमेकाकी एव मया सूचिभेद्य तमसि प्रेषितः। नैतदुचितं कृतम् इति चिन्तयित्वा राजापि खड्गम् आदाय वीरवरं गुप्तरूपेण अन्वसरत्। नगर्याः बहिः वीरवरेण सरःमध्ये रुदती काचित् स्त्री दृष्टा पृष्टा च – “का त्वम् ? किमर्थं रोदिषि ?” सा स्त्री उवाच – अहमस्य देशस्य राज्ञः राजलक्ष्मीः। अद्यतः तृतीयेऽह्रि राज्ञो मरणं ध्रुवमिति परिज्ञाय खेदादनुशोचामि।
वीरवरोऽवदत् – यत्रापायः संभवति तत्रोपायोऽपि अस्ति। ततः केन उपायेन स प्रभुः रक्षणीयः ? लक्ष्मीरुवाच- यदि त्वमात्मानं भगवत्यै सर्वमङ्गलायै उपहारीकरोषि तदा राजापि चिरंजीविष्यति, अहमपि चात्र चिरं स्थास्यामि।’ एतच्छ्रुत्वा वीरवरः सर्वमङ्गलां सम्पूज्य यदैव खड्गमादाय स्वशिरश्छेदनाय उद्यतोऽभवत् तदैव भगवती सर्वमङ्गला आशीर्वचोभिः वीरवरम् उवाच – “पुत्र! अनेन ते सत्त्वोत्कर्षेण स्वामिभक्त्या च संतुष्टाऽस्मि। ‘तव राजा चिरं जीवतु’ इत्युक्त्वा सा अदृश्याभवत्। राजापि तेनालक्षितः राजभवनं प्रत्यागच्छत्।
वीरवरोऽपि शीघ्रमेव प्रत्यागत्य पूर्ववत् सिंहद्वारमसेवत। भूपतिना पृष्टः सः देव! सा रुदती स्त्री मामवलोक्यादर्शनं गता। अतः न काऽपि वार्ता अभवत्’ इति सादरं विज्ञापयामास। तद्वचनमाकर्ण्य राजा अचिन्तयत् – कथमयं श्लाघ्यः महासत्त्वः। ततः सः राजा प्रातः राजसभाम् आहूय रात्रिवृत्तान्तं सर्वेभ्यः विज्ञाप्य तस्मै वीरवराय कर्नाटकराज्यमयच्छत्।

124. रात्रौ राजा किम् अशृणोत् ?
1. खड्गस्य स्वरम् ।
2. स्त्रियाः क्रन्दनध्वनिम्
3. केषाञ्चित् सैनिकानां
4. सिंहद्वारे कस्यापि सिंहस्य
Click To Show Answer
Answer – (2)