गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निर्देशः – निम्नलिखित गद्यांशं पठित्वा अष्टप्रश्नानां समीचीनं विकल्प॑ चित्वा उत्तराणि देयानिI
समागतः वसन्तः। स्वागतं ते ऋतुराज! तवागमने भवति पुष्पाणां विकासः सौरभाणां च प्रसारःI अतः तव आगमनं सर्वान् जनान् आनन्दयति, निखिलान् प्राणिनः प्रीणयति चराचरं च रमयतिI इदानीं वारिणः अत्यधिकं शैत्यं विलीयतेI उल्लासस्य उत्साहस्य च सर्वत्र साम्राज्यं राजतेI स्वच्छता एव दृश्यते परितः।
पश्यतु भवान् निर्मलम् आकाशम्। स्वच्छाः दिशः प्रसन्नाः इव भान्तिI सर्वत्र तडागेषु नदीषु कुल्यासु सरःसु च राजते विमलं वारि। क्वचित् मुकुलितानि अपरत्र प्रफुल्लितानि कमलवनानि। वारिषु विकसितानां पङ्कजानां शोभा कस्य मनों न हरति।
वनेषु वाटिकेषु उद्यानेषु च नानावर्णानि पुष्पाणि शोभन्तेI पुष्पाणामुपरि गुञ्जन्ति भ्रमराःI ते च सानन्दं मधूनि पिबन्तिI मधुना मत्तः पिकः मधुरं कूजति, तस्य ध्वनिं बालकाः अनुकुर्वन्तिI इदानीं तरुषु पल्लवाः विराजन्तेI आम्रेषु मज्जर्यः उद्गताःI पक्षिणां कलकूजनमपि सर्वेषां सुखदं भवति।
अद्यत्वे मधुनः आधिक्यम्I पुष्पेषु मधूनि भवन्ति मज्जरीषु च भवन्ति मधूनिI मधुनो लोलुपाः चञ्चरीकाः तदुपरि उड्डीयन्ते।
सर्षपः पीतं वसनं दधानः मनोरमः दृश्यते। पुष्पेभ्यः सौरभं वारिभ्यः शीतलतां चादाय प्रवाति मन्दः पवनः। मधुभिः सिक्तेन पवनेन आन्दोलिता मन्दं मन्दं कम्पमाना लता नर्तकीव नृत्यन्ती प्रतीयते।
अस्मिन् समये प्रमुदिताः सर्वे जनाः समूहं रचयित्वा प्रकृतिशोभां पश्यन्तः भ्रमन्तिI उद्यानेषु वाटिकासु नदीतटेषु च क्वचित् गायन्ति लोकाःI अपरत्र नृत्यन्ति कूर्दन्ति च बालकाःI न केवलं मानवाः एवं अपि तु पशवः पक्षिणः चापि प्रमुदिताः भवन्ति वसन्ते।

123. पक्षिणा मधुरकूजनम् कीदृशम् भवति ?
1. कोलाहलपूर्णं भवति
2. विरसम् भवति
3. सुखदं भवति
4. बाधाकारकम् भवति
Click To Show Answer
Answer – (3)