गद्यांश पढ़ने के लिए यहाँ क्लिक करें
अधोलिखितेषु गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत–
कृष्णमूर्ति: श्रीकण्ठश्च मित्रे आस्ताम्। श्रीकण्ठस्य पिता समृद्ध: आसीत्। अत: तस्य भवने सर्वविधानि सुख-साधनानि आसन्। परं कृष्णमूर्ते: माता पिता च निर्धनौ कृषकदम्पती। तस्य गृहम् आडम्बरविहीनं साधारणञ्च आसीत् ।
एकदा श्रीकण्ठ: तेन सह प्रात: नववादने तस्य गृहम् अगच्छत् । तत्र कृष्णमूर्ति: तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। एतत् दृष्ट्वा श्रीकण्ठ: अकथयत् ‘‘-मित्र! अहं भवता सत्कारेण सन्तुष्टोऽस्मि। केवलम् इदमेव मम दु:खं यत् तव गृहे तु बहव: कर्मकरा: सन्ति।’’ तदा कृष्णमूर्ति: अवदत् ‘‘- मित्र! ममापि अष्टौ कर्मकरा: सन्ति। ते च द्वौ पादौ, द्वे हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे इति। एते प्रतिक्षणं मम सहायका:। किन्तु तव भृत्या: सदैव सर्वत्र च उपस्थिता: भवितुं न शक्नुवन्ति। त्वं तु स्वकार्याय भृत्याधीन:। यदा यदा ते अनुपस्थिता:, तदा तदा त्वं कष्टम् अनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव, न कदापि कष्टं भवति।’’
श्रीकण्ठ: अवदत् – ‘‘मित्र! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नता जाता। अधुना अहमपि स्वकार्याणि स्वयमेव कर्तुम् इच्छामि।’’ भवतु, सार्धद्वादशवादनमिदम्। साम्प्रतं गृहं चलामि।

127. ‘साम्प्रतम्’ इत्यस्य पदनिर्देशं कुरुत
1. सञ्ज्ञापदम्
2. क्रियापदम्
3. अव्ययपदम्
4. विशेषणपदम्
Click To Show Answer
Answer – (3)
साम्प्रतम् अव्ययपद है। साम्प्रतम् – अस्मिन्काले, एतर्हि, सम्प्रति, इदानीम्, अधुना, इत्यमर:।