गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निम्नलिखितं गद्यांशं पठित्वा सप्तप्रश्नाम् यथोचितं विकल्पं चित्वा उत्तराणि देयानि-
स्त्रीशिक्षाक्षेत्रे अग्रगण्या पण्डिता रमाबाई 1858 तमे खिष्टाब्दे जन्म अलभत्। तस्या: पिता अनन्तशास्त्री डोंगरे माता च लक्ष्मीबाई आस्ताम् । तस्मिन् काले स्त्रीशिक्षाया: स्थिति: चिन्तनीया आसीत् । स्त्रीणां कृते संस्कृतशिक्षणं प्राय: प्रचलितं नासीत् । किन्तु डोंगरे रूढिबद्धां धारणां परित्यज्य स्वपत्नीं संस्कृतमध्यापयत् । एतदर्थं स- समाजस्य प्रतारणाम् अपि असहत। अनन्तरं रमा अपि स्वमातु: संस्कृतशिक्षां प्राप्तवती।
कालक्रमेण रमाया: पिता विपन्न: सञ्जात:। तस्या: पितरौ ज्येष्ठाभगिनी च दुर्भिक्षपीडिता: दिवङ्गता:। तदनन्तरं रमा स्व-ज्येष्ठभ्रात्रा सह पद्भ्यां समग्रं भारतम् अभ्रमत् । भ्रमणक्रमे सा कोलकातां प्राप्ता। संस्कृतवैदुष्येण सा तत्र ‘पण्डिता’ ‘सरस्वती’ चेति उपाधिभ्यां विभूषिता। तत्रैव सा ब्रह्मसमाजेन प्रभाविता वेदाध्ययनम् अकरोत् । पश्चात् सा स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती।
1880 तमे खिष्टाब्दे सा विपिनबिहारीदासेन सह बाकीपुर-न्यायालये विवाहम् अकरोत् । सार्धैकवर्षात् अनन्तरं तस्या: पति: दिवङ्गत:। तदनन्तरं सा पुत्र्या मनोरमया सह जन्मभूमिं महाराष्ट्रं प्रत्यागच्छत् । नारीणां सम्मानाय शिक्षायै च सा स्वकीयं जीवनम् अर्पितवती। हण्टर-शिक्षा-आयोगस्य समक्षं नारीशिक्षाविषये सा स्वमतं प्रस्तुवती। सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती। तत्र इसाईधर्मस्य स्त्रीविषयकै: उत्तमविचारै: प्रभाविता जाता।
इंग्लैण्डदेशात् रमाबाई अमरीकादेशम् अगच्छत् । तत्र सा भारतस्य विधवास्त्रीणां सहायतार्थम् अर्थसञ्चयम् अकरोत् । भारतं प्रत्यागत्य मुम्बईनगरे सा ‘शारदा-सदनम्’ अस्थापयत् । अस्मिन् आश्रमे निस्सहाया: स्त्रिय: निवसन्ति स्म। तत्र स्त्रिय: मुद्रणट ज्र्ण-काष्ठकलादीनाञ्च प्रशिक्षणमपि लभन्ते स्म। परम् इदं सदनं पुणेनगरे स्थानान्तरितं जातम् । तत: पुणेनगरस्य समीपे केडगाँव-स्थाने ‘मुक्तिमिशन’ नाम संस्थानं तया स्थापितम् । अत्र अधुना अपि निराश्रिता: स्त्रिय: ससम्मानं जीवनं यापयन्ति।
1922 तमे खिष्टाब्दे रमाबाई-महोदयाया: निधनम् अभवत् । सा देश-विदेशानाम् अनेकासु भाषासु निपुणा आसीत् । समाजसेवाया: अतिरिक्तं लेखनक्षेत्रे अपि तस्या: महत्त्वपूर्णम् अवदानम् अस्ति। ‘स्त्रीधर्मनीति’ ‘हाई कास्ट हिन्दू विमेन’ इति तस्या: प्रसिद्धं रचनाद्वयं वर्तते।

132. रमाया: प्रमुखं लक्ष्यं किम् आसीत् ?
1. स्त्रीणां स्वतन्त्रता
2. स्त्रीणां शिक्षा
3. भारतीयसंस्कृते: प्रचार:
4. विधवा-उत्थानम्
Click To Show Answer
Answer – (2)
रमाबाई का प्रमुख लक्ष्य स्त्रियों की शिक्षा में सुधार लाना था।