गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निम्नलिखितं गद्यांशं पठित्वा अष्टप्रश्नानां समीचीनं विकल्पं चित्वा उत्तराणि देयानि-
अस्ति मगधदेशे फुल्लोत्पलनाम् सर:। तत्र संकटविकटौ हंसौ निवसत:। कम्बुग्रीवनामक: तयो: मित्रम् एक: कूर्म: अपि तत्रैव प्रतिवसति स्म।
अथ एकदा धीवरा: तत्र आगच्छन् । ते अकथयन् – ‘‘वयं श्व: मत्स्यकूर्मादीन् मारयिष्याम:’’। एतत् श्रुत्वा कूर्म: अवदत् – ‘‘मित्रे! किं युवाभ्यां धीवराणां वार्ता श्रुता ? हंसौ अवदताम् – ‘‘प्रात: यद् उचितम् तद् कत्र्तव्यम्’’ अधुना किम् अहं करोमि?’’ कूर्म: अवदत् – ‘‘अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।’’
हंसौ अवदताम् – ‘‘अत्र क: उपाय:?’’ कच्छप: वदति- ‘‘युवां काष्ठदण्डम् एकं चञ्च्वा धारयताम् । अहं काष्ठदण्डमध्ये अवलम्ब्य युवयो: पक्षबलेन सुखेन गमिष्यामि।’’ हंसौ अकथयताम् – ‘‘सम्भवति एष: उपाय:। किन्तु अत्र एक: अपायोऽपि वर्तते। आवाभ्यां नीयमानं त्वामवलोक्य जना: किचिद् वदिष्यन्ति एव। यदि त्वमुत्तरं दास्यसि तदा तव मरणं निश्चितम् । अत: त्वम् अत्रैव वस।’’ तत् श्रुत्वा क्रुद्ध: कूर्म: अवदत् – ‘‘किमहं मूर्ख:? उत्तरं न दास्यामि। किचिदपि न वदिष्यामि।’’ अत: अहं यथा वदामि तथा युवां कुरुतम्।
एवं काष्ठदण्डं लम्बमानं कूर्मं गोपालका: अपश्यन्। पश्चाद् धावन् अवदन् च – ‘‘हं हो! महदाश्चर्यम् । हंसाभ्यां सह कूर्मोऽपि उड्डीयते।’’ कश्चिद् वदति- ‘‘यद्ययं कूर्म: कथमपि निपतति तथा अत्रैव पक्त्वा खादिष्यामि।’’ अपर: अवदत्-‘‘सरस्तीरे दग्ध्वा खादिष्यामि’’। अन्य: अकथयत्-‘‘गृहं नीत्वा भक्षयिष्यामि’’ इति। तेषां तद् वचनं श्रुत्वा कूर्म: क्रुद्ध: जात:। मित्राभ्यां दत्तं वचनं विस्मृत्य स: अवदत् – ‘‘यूयं भस्म खादत।’’ तत्क्षणमेव कूर्म: दण्डात् भूमौ पतित:। गोपालकै: स: मारित:। अत एवोक्तम् –
सुहृदां हितकामनां वाक्यं यो नाभिनन्दति। स कूर्म इव दुर्बुद्धि: काष्ठात् भ्रष्टो विनश्यति।।

123. कूर्मेण कथित: उपाय: केन कारणेन असफल: अभवत्?
1. कूर्म: काष्ठं ग्रहितुम् नाशक्नोत्।
2. हंसौ सत्यनिष्ठौ सुहृदौ नास्ताम्।
3. कूर्म: मित्रयो: वचनं विस्मृत्य अवदत्।
4. गोपालकानां वचनै: क्रुद्ध: अभवत्।
Click To Show Answer
Answer – (3)
कूर्म (कछुआ) के द्वारा कहा गया उपाय जिस कारण से असफल हुआ वह यह है कि वह (कछुआ) अपने मित्र (हंस) की बात को भूलकर बोला था।
भू (होना) लङ् लकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष अभवत् अभवताम् अभवन्
मध्यम पुरुष अभव: अभवतम् अभवत
उत्तम पुरुष अभवम् अभवाव अभवाम